Skip to content
WHATSAPP NO.00977-9849367500

हार्दिका ते बधाईयं सभामुखपदे शुभे।
सफलः कार्यकालोऽस्तु राष्ट्रहितप्रवर्धकः॥
नमस्ते सभामुख श्रेष्ठ डीपीआर्याल नामक।
कार्ये ते सिद्धिरस्तु राष्ट्राय हितकारिणः॥
धर्मेण शासनं कुर्याःन्यायमार्गे सदा स्थितः।
जनानां हितकामार्थं भवतु ते शुभं पदम्॥
वाणी ते मधुरा नित्यं चित्तं शुद्धं दयालु च।
संसदि शोभते नित्यं दीप इव प्रकाशकः॥
विवेकबुद्धिसम्पन्नः कर्तव्ये दृढनिश्चयः।
देशसेवापरः नित्यं वर्धतां ते यशो ध्रुवम्॥
विघ्ना ये सन्ति मार्गेऽस्मिन् तान् जयस्व धृतव्रतः।
जनविश्वासरक्षणे सदा भव दृढस्थितः॥
समता सर्वभूतेषु भावना ते सदा स्थिता।
शान्तिसौहार्दवृद्ध्यर्थं कुरु कार्यं निरन्तरम्॥
दीर्घायुष्मान् भव नित्यं कीर्तिर्वर्धतां शुभा।
सभामुखस्य ते कार्यं सिद्धिं यातु निरन्तरम्॥
रचयिता
पण्डित श्री नारायण प्रसादअधिकारी।