Skip to content
WHATSAPP NO.00977-9849367500
सरस्वति वन्दनम्
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥ 1
श्वेताम्बरा विशालाक्षी श्वेतपद्मनिवासिनी।
श्वेतवीणाधरा देवी पावयस्व मनो मम॥ 2
या कुन्देन्दुसमप्रख्या या शुभ्रवस्त्रसंयुता।
या वीणावरदा नित्यं तां वन्दे ज्ञानदायिनीम्॥ 3
पुस्तकाभयदाहस्ता कमलासनसंस्थिता।
बुद्धिंदेहि यशोदेहि विद्यादेहि च शाश्वतीम्॥4
ज्ञानरूपा महाविद्या बुद्धिप्रज्ञाविवर्धिनी।
अज्ञानतिमिरं नाश्य दीपय ज्ञानदीपकम्॥5
वीणानादसुधासारा ब्रह्मानन्दप्रदायिनी।
वाणीं मे मधुरां कुरु सत्ययुक्तां स्थिरां शुभाम्॥6
शारदा शारदाम्भोजवदना विदुषां प्रिया।
बालानां हितकारिणि भव नित्यं सहायिनी॥ 7
गुरुमूर्ति स्वरूपेण भक्तानुग्रहकारिणि।
पाठे लेखे च सर्वत्र मां सदा प्रेरय प्रभो॥ 8
न मे अस्ति त्वदृते नाथे विद्या बुद्धिश्च काचन।
त्वमेव माता मे देवि त्वमेव शरणं मम॥ 9
सर्वविद्याधिदेवि त्वं सर्वज्ञानप्रदायिनी।
मम दोषान् क्षमस्वाम्ब शुद्धिं कुरु च मे मनः॥ 10
या देवी सर्वभूतेषु विद्यारूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै निरन्तरम्॥ 11
एवं स्तुत्वा सरस्वत्याः प्रसादं लभते नरः।
विद्यांबुद्धिं यशोदीर्घं शान्तिंचाप्नोतिशाश्वतीम्॥ 12
रचयिता :पं.श्री नारायण प्रसाद अधिकारी