नव वर्ष

 

नववर्ष को हार्दिक मंगलमय शुभ कामना

नववर्षे शुभे काले मङ्गलं वः सदा भवेत्।
नवाशा नवचेतश्चजीवने वर्धतां शुभम्॥१॥

 

दोषान् विहाय विगतान्गृह्णीमः सत्पथं वयम्।
दृढसंकल्पयुक्तेनगच्छेम शुभमार्गतः॥२॥

 

देशसेवारताः सर्वेधारयन्तु दृढं मनः।
समृद्धं सुन्दरं राष्ट्रंकुर्युः कर्मभिरुत्तमैः॥३॥

 

ये नेतारो हिते युक्ताःजनानां सेवने रताः।
तेषां नीतिप्रभावेणधर्मो वर्धतां सदा॥४॥

 

न केवलं विकासोऽस्तिआवश्यं शीलसंयमः।
एकता सहकारश्चभूयात् राष्ट्रस्य भूषणम्॥५॥

 

युवाशक्तिर्महाशक्तिःराष्ट्रस्य परमं बलम्।
तया युक्तो भवेद्देशः समृद्धेः शिखरं व्रजेत्॥६॥

 

शिक्षा स्वास्थ्यसमृद्धिश्च स्वावलम्बनमेव च।
एतेषां साधने नित्यं यत्नोऽस्माकं दृढो भवेत्॥७॥

 

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्॥८॥