श्री मुक्तेश्वरनाथ स्तोत्रम्
मूर्तियाख्यजनपावने शुभतले पुण्यप्रसिद्धे सदा यत्र श्रीमुक्तेश्वराभिधः शिववरः भक्तार्थसिद्धिप्रदः।
नित्यं भक्तजनैर्नताङ्घ्रिकमलः शान्तिप्रदो भावितः तं धामेश्वरनाथमादरभराः वन्दामहे शङ्करम्॥१॥
घण्टानादविमिश्रितैः सुरमदैर्धूपप्रदीपोज्ज्वलैः भक्तैः पूजितमम्बिकापतिमहो दिव्यप्रभं शाश्वतम्।
यत्राशाः फलदाः भवन्ति सततं भक्तप्रसादादिह तं मुक्तेश्वरनाथमीश्वरमहं वन्दे शिवं शाश्वतम्॥२॥
पुण्यं तीर्थमिदं मनोहरतरं शान्तिप्रदं सर्वदा यत्र स्नानजपादिकं फलकरं भक्तेः समृद्धिप्रदम्।
ध्यानस्थाः शिवभक्तिमग्नमनसः सौख्यं परं प्राप्नुयुः तं मुक्तेश्वरनाथधाम सततं वन्दे महेशं विभुम्॥३॥
नानापुष्पसुगन्धमाल्यविलसत् पूजाविधौ शोभितं दीपज्वालविभासितं हरिहरप्रेमोदितं मन्दिरम्।
भक्तानां हृदयेषु भावसुमनः सौख्यं वितन्वन् प्रभुः मुक्तेश्वराभिधो महेश्वर इह श्रीशङ्करः पातु नः॥४॥
वेदध्वानिविभूषितं सुमधुरं मन्त्रप्रभावोज्ज्वलं यत्राराधनकर्मसु प्रवरताः सन्तः सदाऽनन्दिताः।
शान्तिं मोक्षपदं च यत्र लभते भक्तः प्रणम्य प्रभुं तं मुक्तेश्वरनाथमादरभराः वन्दामहे शाश्वतम्॥५॥
यत्रोत्सवसमागमे जनसमूहो हर्षोल्लसन्मानसः गीतं नृत्यमनोहरं हरिहरस्तुत्यादि गायन्ति वै।
धर्मस्य प्रविभूषणं जनपदं सौख्यप्रदं सर्वदा तं मुक्तेश्वरनाथधाम सततं वन्दे शिवं शङ्करम्॥६॥
भक्तानां वरदः शिवः करुणया दुःखं हरन् सर्वदा पापानां विनिवारकः क्षणमिह स्मरणेनैव हि।
यः सर्वत्र दयामयः शिवहर: शम्भुः कृपासागरः तं मुक्तेश्वरनाथमीश्वरमहं वन्दे सदा भावतः॥७॥
गङ्गातोयविलिप्तलिङ्गविभवं शुद्धप्रकाशोज्ज्वलं भक्तानां प्रणतार्तिनाशनपरं सौख्यप्रदं शाश्वतम्।
यत्राशाः हृदये प्रसन्नलहरीं सन्दर्शयन्ति ध्रुवम् तं मुक्तेश्वरनाथमीश्वरमहं वन्दे महेशं विभुम्॥८॥
मुक्तेश्वराभिधं महेश्वरमिदं धामैव पुण्यप्रदं यत्र स्मरणमात्रतः क्षयमुपैत्याशेषपापं ध्रुवम्।
भक्तानां हृदयेषु भक्तिसुमनः सौख्यं वितन्वन् प्रभुः श्रीशम्भुः करुणानिधिः सततमेवाशिष्प्रदो वर्तते॥९॥
मूर्तियाख्यजनमण्डले शुभतले धर्मप्रवृद्धे सदा यत्रेशो गिरिजापतिः करुणया लोकान् समुद्धारयन्।
भक्तानां हृदये प्रसन्नवदनः शान्तिप्रदो नित्यदा तं मुक्तेश्वरनाथमीश्वरमहं वन्दे शिवं शङ्करम्॥१०॥
दीपज्योतिरलङ्कृतं सुमधुरैः स्तोत्रैः समाराधितं धूपगन्धसुगन्धितं जनमनः सौख्यप्रदं मन्दिरम्।
यत्र भक्तिवशान्नराः प्रणमतः सौभाग्यमाप्नोति वै तं मुक्तेश्वरनाथधाम सततं वन्दे महेशं विभुम्॥११॥
यः श्रद्धाभरितो नरः पठति वा स्तोत्रमिदं भक्तितः मुक्तेश्वराधिदेवतां हृदि धृत्वा शुद्धेन भावेन वै।
तस्याशेषदुरितक्षयो भवति च श्रीशङ्करप्रसादतः सौख्यं शान्तिमनन्तमाप्नुयात् सदा भक्तिप्रसादान्नरः॥१२॥
इति श्री–नारायण प्रपन्न कास्यप विरचितं मुक्तेश्वरनाथ स्तोत्रं सम्पूर्णम् ।।