मातृ स्तव

          मातृ स्तव

 

जननीं जगतां वन्दे करुणारसपूरिताम्।

जीवनस्य प्रदात्रीं तां मातरं प्रणमाम्यहम्॥1

 

स्नेहसागररूपेण पालनं यस्य सदा भवेत्।

सा माता मम जीवनं प्रकाशयति सर्वदा॥2

 

दुःखहन्त्री सुखदात्री ममतामृतवर्षिणी।

मातृदेवी सदा वन्द्या सर्वलोकहितैषिणी॥3

 

बाल्ये यस्या कृपादृष्ट्या जीवनं पुष्टिमाप्नुयात्।

तां मातरं सदा वन्दे हृदयेन सुभक्तितः॥4

 

अन्नं ददाति जीवनं च रक्षति संकटेषु च।

जननीं न परं दैवं वन्दे नित्यं समादरात्॥5

 

मातृपादसरोजं तु शान्तिदं मोक्षदायकम्।

संसारसागरे नौका माता मे सर्वदा भवेत्॥6

 

मातृभक्तिः परा धर्मः मातृसेवा महाफलम्।

तस्याः चरणयोः नित्यं नमामि श्रद्धयान्वितः॥7

 

निद्रा त्यागं करोत्येव मम हेतोः सदा हि सा।

कष्टं सहति मौनेन माता मे करुणामयी॥8

 

श्रमं वहति सर्वदा सा मम सुखकारणात्।

तस्याः ऋणं न शक्नोमि कदापि परिशोधितुम्॥9

 

पुत्रार्थे जीवनं यस्या समर्पितमिव भवेत्।

तां वन्दे मातरं नित्यं भक्त्या परमया युतः॥10

 

दया क्षमा च शान्तिश्च यस्यां सदा प्रतिष्ठिता।

सा माता मम जीवनं देवतुल्या प्रकीर्तिता॥11

 

गृहस्य दीपवत् माता अन्धकारविनाशिनी।

ज्ञानप्रकाशदात्री च जीवनस्य सहायिनी॥12

 

यस्याः स्मरणमात्रेण पापं सर्वं विनश्यति।

मातृनाम सदा स्मर्तव्यं हृदये श्रद्धया युतम्॥13

 

बाल्ये पाठयति सा मां धर्ममार्गं सदा शुभम्।

तस्याः उपदेशमूलं जीवनं मे भवेत् सदा॥14

 

संकटेषु च दुःखेषु सा एव शरणं मम।

मातृप्रेम समं नास्ति त्रैलोक्येऽपि कदाचन॥15

 

सत्यधर्मपथे नित्यं प्रेरयति सदा हि सा।

माता मे जीवनाधारः परमं सुखकारणम्॥16

 

हृदयस्य गहने स्थिता मातृभक्तिर्मम सदा।

तस्याः चरणसेवायां मोक्षमार्गोऽपि दृश्यते॥17

 

जीवने यद् सुखं दृष्टं सर्वं मातुः कृपाफलम्।

तस्या ऋणं न शक्नोमि जन्मजन्मान्तरेऽपि हि॥18

 

प्रेमरूपा दयारूपा माता मे जगदीश्वरी।

तस्याः वन्दनमात्रेण जीवनं पुण्यमेव हि॥19

 

न मातुः तुल्यको देवो न मातुः तुल्यबान्धवः।

सर्वतीर्थफलं तस्याः चरणस्पर्शमात्रतः॥20

 

इति मातृस्तवं पुण्यं यः पठेत् श्रद्धया युतः।

स सुखं लभते नित्यं मातृकृपावशेन च॥21

 

          इति मातृस्तवं सम्पूर्णम्

 

रचयिता श्री नारायण प्रसाद अधिकारी