नवग्रह स्तुतिः

 

‎जपारक्तप्रतीकाशं कश्यपात्मजतेजसम्।
‎अन्धकारविनाशार्थं भानुं वन्दे नमो नमः॥
‎धर्ममार्गप्रदर्शकं जगदालोककारकम्।
‎भक्तहिते निरतं सूर्यदेवं नमाम्यहम्॥

 

‎चन्द्रः

 

शंखहिमसमच्छायं समुद्रतनयोद्भवम्।
‎निशानाथं शशीन्द्रं तं नमस्यामि पुनः पुनः॥
‎चित्तप्रसादजनकं शीतांशुं सौम्यदर्शनम्।
‎लोकानन्दकरं चन्द्रं भक्त्या वन्दे नमो नमः॥

 

‎मङ्गलः

 

‎भूधरात्मजसम्भूतं विद्युत्सदृशतेजसम्।
‎वीर्यवन्तं महाबाहुं भौमं वन्दे नमो नमः॥
‎रक्तवर्णं रणधीरं दोषदाहकरं सदा।
‎शौर्यशक्तिप्रदं देवं मङ्गलं प्रणमाम्यहम्॥

 

बुधः

 

‎श्यामलाङ्गं मनोज्ञाभं चन्द्रसूनुं बुधं स्मरेत्।
‎सौम्यस्वभावसम्पन्नं बुधं वन्दे नमो नमः॥
‎वाणीबुद्धिप्रदातारं शास्त्रार्थविवेकदम्।
‎कार्यसिद्धिकरं देवं बुधं नत्वा नमाम्यहम्॥

 

बृहस्पतिः

 

‎सुरर्षिगणवन्द्यं तं सुवर्णाभं गुरुं स्मरेत्।
‎त्रैलोक्यपूजितं देवं बृहस्पतिं नमाम्यहम्॥
‎धर्मज्ञानप्रकाशाय मन्त्रतत्त्वप्रबोधकम्।
‎सौभाग्यवृद्धिदं नित्यं गुरुं वन्दे नमो नमः॥

 

‎शुक्रः

 

‎कुन्देन्दुसदृशच्छायं दैत्याचार्यं महाद्युतिम्।
‎भार्गवं शास्त्रनिपुणं शुक्रं वन्दे नमो नमः॥
‎भोगैश्वर्यप्रदातारं कलत्रसुखवर्धनम्।
‎सौन्दर्यगुणसम्पन्नं शुक्रदेवं नमाम्यहम्॥

 

‎शनिः

 

‎नीलमेघनिभाकारं सूर्यपुत्रं शनैश्चरम्।
‎छायासुतं महावीरं शनिं वन्दे नमो नमः॥
‎कर्मफलविधानज्ञं न्यायमार्गप्रवर्तकम्।
‎दुःखनाशकरं देवं शनिं नित्यं नमाम्यहम्॥

 

राहुः

 

‎अर्धदेहधरं घोरं ग्रसनक्रियतेजसम्।
‎सिंहिकासूनवं राहुं नमस्यामि भयापहम्॥
‎तमोगुणप्रधानेन ग्रहपीडाहरं सदा।
‎शान्तिदं राहुदेवं तं भक्त्या वन्दे नमो नमः॥

 

‎केतुः

 

‎पलाशारुणसङ्काशं धूम्रवर्णं भयानकम्।
‎तारागणविहीनं तं केतुं वन्दे नमो नमः॥
‎वैराग्यज्ञानदातारं मोक्षमार्गप्रदर्शकम्।
‎भक्तकृपाकरं नित्यं केतुं नत्वा नमाम्यहम्॥

 

‎नवग्रह समष्टि स्तुति

 

‎सूर्यचन्द्रमसौ भौमं बुधं गुरुमथापि च।
‎शुक्रं शनिं राहुकेतू नवग्रहान् नमाम्यहम्॥
‎आयुरारोग्यसौभाग्यं विद्यां बलमथो यशः।
‎प्रयच्छन्तु सदा मह्यं ग्रहाः शान्तिकरा नृणाम्॥

 

‎फलश्रुति

 

‎‎सूर्येण दीप्तिं प्राप्यं धन्यं स्यान्नमः शुभं तथा।
‎चन्द्रेण मनोशान्तिः आयुः प्रीति: सुखं च यशः॥

 

‎मङ्गलेन वीर्यं बलं बुधेन विज्ञानं फलम्।
‎गुरुणा सौभाग्यं वृद्धिं शुक्रेणैश्वर्यमुत्तमम्॥

 

‎शनि कृपया दुःखहरं, राहु–केतु योगसिद्धिकारकम्।
‎सर्वसंपन्नतां प्राप्नुयात् नवग्रहपूजितः सदा॥

 

‎इति श्री ज्योतिष नारायण प्रसाद अधिकारी विरचितं नवग्रह स्तुतिः सम्पूर्णम् ।