रामो विग्रहवान् धर्मः सत्यशीलो दयापरः।
तस्य जन्मदिने पुण्ये भवतु सर्वमङ्गलम्॥१॥
रामनामप्रभावेण दुःखदारिद्र्यनाशनम्।
श्रीरामनवमीपर्वे सर्वेषां मङ्गलं भवेत्॥२॥
अयोध्यायां समुत्पन्नो लोकानां हितकाम्यया।
तस्मै रामाय देवाय नमः शुभदिनेष्वपि॥३॥
रामनवमीमहापर्वणि हर्षोल्लाससमन्विताः।
भवन्तु सर्वजनाः नित्यं सुखसमृद्धिभागिनः॥४॥
इति नारायणप्रसादाधिकारिणा विरचितं